link to Home page of 86-06 Edgerton Blvd, Jamaica, NY 11432-2937 - 718 575-3215
The Archives
 
pdf

गुरु गीतम्

Vasiṣṭha Kavyakantha Ganapati Muni

 १  अव्यक्ताद्यत एतद् व्यक्तं जातमशेषम् |
    यद् धत्ते तदजस्रं यत्रान्ते लयमेति ||

 २  आधारे खलु यस्मिन् गोलानां सह लक्षैः | 
    ब्रह्माण्डं प्रतितिष्ठत्येतन्निस्तुलसत्वे ||

 ३  सूर्यादिग्रहभासां यन्मूलं घनतेजः |
    यद् ब्रह्मादिसुराणां शक्त्यै शक्तिरुताहो ||

 ४  ज्ञात्वा तत्त्वमसङ्गा भासा यस्य रमन्ते |
    यज्जालेन समस्ते द्वैतेक्षाऽल्पमतीनाम् ||

 ५  यद्ध्यानेन भवन्ति स्वात्मानन्दनिमग्नाः |
    यन्निष्ठा खलु मुक्तिर्यच्छन्दोऽपि तदर्थः ||

 ६  तद् ब्रह्म प्रणवाख्यं चित्ते ध्यानकृते मे |
    अश्रान्तं रमणाख्यां बिभ्रद् भातु मदिष्टाम् ||

 ७  आधारे धृतमूलं हार्दाब्जे कृतवासम् |
    शीर्षाब्जाय वहद्यत् पश्चादिन्द्रियशक्त्यै||

 ८  दृष्ट्यां तत्र पराच्यां यद्देहभ्रमकारि |
    आवृत्तं तु पुनर्यत् स्वात्मैक्यानुभवाय ||

 ९  पश्यद्वा विषयौघं विश्रान्तं यदुताहो |
    मुक्त्यै संस्थितमन्तर्वृत्यैक्यानुभवेन ||

१०  आत्मज्योतिरिदं मे बिभ्राणं रमणाख्याम् |
    अश्रान्तं स्फुरतात् तत् शुद्धं हार्दसरोजे ||

११  यद्दीपाद्रमणाख्याद् व्याप्तं गाणपतीषु |
    वाणीभित्तिषु धत्ते गीतचित्रविलासम् ||

१२  यद् हन्तिञ् छविजालै रज्ञानां तिमिराणि |
    तत्तत्त्वं स्फुरताद्वः तारधानसमाधौ ||

१३  यातायातविहारै राधारेषु च शीर्षे |
    सञ्चारं विदधानं किञ्चाशेषविसारि ||

१४  आलम्बेन विहीनं व्योमामं परिपूर्णम् |
    निश्शब्दं गुरुरूपं तद् ब्रह्म स्फुरतान्मे ||

१५  ध्यानं भाति परोक्षं यत्तत्त्व श्रवणेन |
    यत्साङ्गत्यविशेषो हेतुः स्यादपरोक्षे ||

१६  यच्चिन्ता स्थिरमुक्त्यै ब्रह्मैतद्रमणाख्यम् | 
    मामावृत्य समन्तादानन्दे निदधातु ||

१७  तारानन्दनियुक्तः प्रीत्या तस्य मतेन |
    आधाद्दीप्तगभीरं वासिष्ठो गुरुगीतम् ||